ॐ ज्ञानिनामपि चेतांसि देवि भगवती
हि सा।
बलादाकृष्य मोहाय महामाया प्रयच्छति॥१॥
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारणाय सदार्द्रचित्ता॥२॥
स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारणाय सदार्द्रचित्ता॥२॥
सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थ साधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तुते॥३॥
शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तुते॥३॥
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोस्तुते॥४॥
सर्वस्यार्तिहरे देवि नारायणि नमोस्तुते॥४॥
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोस्तुते॥५॥
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोस्तुते॥५॥
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान्।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति॥६॥
रुष्टा तु कामान् सकलानभीष्टान्।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति॥६॥
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेस्वरी।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्॥७॥
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्॥७॥
No comments:
Post a Comment